Ramayana · Book VI · Yuddha Kāṇḍa
Ramayana, Book VI, Canto 119: Glory To Vishnuयुद्धकाण्डम्
Ralph T. H. Griffith’s English verse (1870–74), beside the Sanskrit of sarga 6.117.
Sanskrit
दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥ १ ॥
ततो वैश्रवणो राजा यमश्च पितृभिः सह ।
सहस्राक्षश्च देवेशो वरुणश्च जलेश्वरः ॥ २ ॥
षडर्धनयनः श्रीमान्महादेवो वृषध्वजः ।
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ ३ ॥
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।
आगम्य नगरीं लङ्काम् अभिजग्मुश्च राघवम् ॥ ४ ॥
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् ।
अब्रुवंस्त्रिदशश्रैष्ठाः प्राञ्जलिं राघवं स्थितम् ॥ ५ ॥
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानविदां विभुः ।
उपेक्षसे कथं सीताम् पतन्तीं हव्यवाहने ॥ ६ ॥
कथं देवगणश्रेष्ठम् आत्मानं नावबुध्यसे ।
ऋतधामा वसुः पूर्वम् वसूनां त्वं प्रजापतिः ॥ ७ ॥
त्रयाणां त्वं हि लोकानाम् आदिकर्ता स्वयंप्रभु: ।
रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ।
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ॥ ८ ॥
अन्ते चादौ च लोकानाम् दृश्यसे त्वं परन्तप ।
उपेक्षसे च वैदेहीम् मानुषः प्राकृतो यथा ॥ ९ ॥
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।
अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ॥ १० ॥
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।
योऽहं यस्य यतश्चाहम् भगवांस्तद् ब्रवीतु मे ॥ ११ ॥
इति ब्रुवन्तं काकुत्स्थम् ब्रह्मा ब्रह्मविदां वरः ।
अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ॥ १२ ॥
भवान् नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः।
एकशृङ्गो वराहस्त्वम् भूतभव्यसपत्नजित् ॥ १३ ॥
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ।
लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ॥ १४ ॥
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।
अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः ॥ १५ ॥
सेनानीर्ग्रामणीश्च त्वम् बुद्धिः सत्त्वं क्षमा दमः ।
प्रभवश्चाप्ययश्च त्वम् उपेन्द्रो मधुसूदनः ॥ १६ ॥
इन्द्रकर्मा महेन्द्रस्त्वम् पद्मनाभो रणान्तकृत् ।
शरण्यं शरणं च त्वाम् आहुर्दिव्या महर्षयः ॥ १७ ॥
सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः ।
त्वं त्रयाणां हि लोकानाम् आदिकर्ता स्वयम्प्रभुः ॥ १८ ॥
सिद्धानामपि साध्यानाम् आश्रयश्चासि पूर्वजः ।
त्वं यज्ञस्त्वं वषट्कारः त्वमोङ्कारः परात्परः ॥ १९ ॥
प्रभवं निधनं वा ते नो विदुः को भवानिति ।
दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥ २० ॥
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् ।
त्वं धारयसि भूतानि पृथिवीं च सपर्वताम् ॥ २१ ॥
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ।
त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान् ॥ २२ ॥
अहं ते हृदयं राम जिह्वा देवी सरस्वती ।
देवा गात्रेषु रोमाणि ब्रह्मणा निर्मिताः प्रभो ॥ २३ ॥
निमेषस्ते स्मृता रात्रिः उन्मेषस्ते भवेद्दिवा ।
संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥ २४ ॥
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥ २५ ॥
त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः ।
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा सुदारुणम् ॥ २६ ॥
यत् परं श्रूयते ज्योतिर्यत् परं श्रूयते तमः ।
यत् परं परतश्चैव परमात्मेति कथ्यसे ॥ २७ ॥
परमाख्यं पर यच्च त्वमेव परिगीयसे ।
स्थित्युत्पत्ति विनाशानां त्वामाहुः परमां गतिं ॥ २८ ॥
सीता लक्ष्मीर्भवान् विष्णुः देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥ २९ ॥
तदिदं नः कृतं कार्यम् त्वया धर्मभृतां वर ।
निहतो रावणो राम प्रहृष्टो दिवमाक्रम ॥ ३० ॥
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ।
अमोघं दर्शनं राम अमोघस्तव संस्तवः ॥ ३१ ॥
अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि ।
ये त्वां देवम् ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ॥ ३२ ॥
प्राप्नुवन्ति सदा कामान् इह लोके परत्र च ।
इममार्षं स्तवं नित्यम् इतिहासं पुरातनम् ।
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ ३३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशाधिकशततमः सर्गः ॥ ११७ ॥
English Griffith
The shrill cry pierced through Ráma’s ears
And his sad eyes o’erflowed with tears,
When lo, transported through the sky
A glorious band of Gods was nigh.
Ancestral shades,1016 by men revered,
In venerable state appeared,
And he from whom all riches flow,1017
And Yáma Lord who reigns below:
King Indra, thousand-eyed, and he
Who wields the sceptre of the sea.1018
The God who shows the blazoned bull,1019
And Brahmá Lord most bountiful
By whose command the worlds were made
All these on radiant cars conveyed,
Brighter than sun-beams, sought the place
Where stood the prince of Raghu’s race,
And from their glittering seats the best
Of blessed Gods the chief addressed:
“Couldst thou, the Lord of all, couldst thou,
Creator of the worlds, allow
Thy queen, thy spouse to brave the fire
And give her body to the pyre?
Dost thou not yet, supremely wise,
Thy heavenly nature recognize?”
They ceased: and Ráma thus began:
“I deem myself a mortal man.
Of old Ikshváku’s line, I spring
From Daśaratha Kośal’s king.”
He ceased: and Brahmá’s self replied:
“O cast the idle thought aside.
Thou art the Lord Náráyaṇ, thou
The God to whom all creatures bow.
Thou art the saviour God who wore
Of old the semblance of a boar;
Thou he whose discus overthrows
All present, past and future foes;
Thou Brahmá, That whose days extend
Without beginning, growth or end;
The God, who, bears the bow of horn,
Whom four majestic arms adorn;
Thou art the God who rules the sense
And sways with gentle influence;
Thou all-pervading Vishṇu Lord
Who wears the ever-conquering sword;
Thou art the Guide who leads aright,
Thou Krishṇa of unequalled might.
Thy hand, O Lord, the hills and plains,
And earth with all her life sustains;
Thou wilt appear in serpent form
When sinks the earth in fire and storm.
Queen Sítá of the lovely brows
Is Lakshmí thy celestial spouse.
To free the worlds from Rávaṇ thou
Wouldst take the form thou wearest now.
Rejoice: the mighty task is done:
Rejoice, thou great and glorious one.
The tyrant, slain, thy labours end:
Triumphant now to heaven ascend.
High bliss awaits the devotee
Who clings in loving faith to thee,
Who celebrates with solemn praise
The Lord of ne’er beginning days.
On earth below, in heaven above
Great joy shall crown his faith and love.
And he who loves the tale divine
Which tells each glorious deed of thine
Through life’s fair course shall never know
The fierce assault of pain and woe.”1020
Griffith’s notes (5)
- The Pitris or Manes, the spirits of the dead.
- Kuvera, the God of Wealth.
- Varuṇ, God of the sea.
- Mahádeva or Śiva whose ensign is a bull.
- The Address to Ráma, both text and commentary, will be found literally translated in the Additional Notes. A paraphrase of a portion is all that I have attempted here.