Hall of Raziel™ , found with , and of the Ages Raziel's Mercy™ Found a phone? Raziel's Mercy™ shows a calm blessing screen with a simple invitation: call the owner. A masked Call button reaches them without showing their number. No pressure. No threats. For finders → Raziel's Library™ Raziel's Library™ holds Sefer Raziel ha-Malakh (Amsterdam 1701, Hebrew and English, six parts), the Gutenberg Bible (Genesis, Exodus, Leviticus, 3 Esdras, Judith, Esther, Job and Psalms), 1 Enoch, Jubilees, and the Book of Giants. Enter the Library → Hall of Raziel™ chat room Coming Soon. In the meantime, join us on RUEZALS.chat. Enter RUEZALS.chat Raziel's Mercy™ A lost Android recovery system. When your phone is lost, Mercy turns its screen into a calm, clear, kind blessing so whoever finds it knows how to help. If the phone can't come home, remote erase is there as the last safeguard. How Mercy works → Raziel speaks (paraphrased)
Hall of Raziel™ › Library › Hindu › Ramayana › Book VI › Canto 41

Ramayana · Book VI · Yuddha Kāṇḍa

Ramayana, Book VI, Canto 41: Ráma’s Envoyयुद्धकाण्डम्

Ralph T. H. Griffith’s English verse (1870–74), beside the Sanskrit of sarga 6.41.

41Sanskrit sarga 6.41 · Sanskrit source · English source

Sanskrit

अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः।
सुग्रीवं सम्परिष्वज्य रामो वचनमब्रवीत्॥ १॥
असम्मन्त्र्य मया सार्धं तदिदं साहसं कृतम्।
एवं साहसयुक्तानि न कुर्वन्ति जनेश्वराः॥ २॥
संशये स्थाप्य मां चेदं बलं चेमं विभीषणम्।
कष्टं कृतमिदं वीर साहसं साहसप्रिय॥ ३॥
इदानीं मा कृथा वीर एवंविधमरिंदम।
त्वयि किंचित्समापन्ने किं कार्यं सीतया मम॥ ४॥
भरतेन महाबाहो लक्ष्मणेन यवीयसा।
शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः॥ ५॥
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः।
जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम॥ ६॥
हत्वाहं रावणं युद्धे सपुत्रबलवाहनम्।
अभिषिच्य च लङ्कायां विभीषणमथापि च॥ ७॥
भरते राज्यमारोप्य त्यक्ष्ये देहं महाबल।
तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत॥ ८॥
तव भार्यापहर्तारं दृष्ट्वा राघव रावणम्।
मर्षयामि कथं वीर जानन् विक्रममात्मनः॥ ९॥
इत्येवं वादिनं वीरमभिनन्द्य च राघवः।
लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत्॥ १०॥
परिगृह्योदकं शीतं वनानि फलवन्ति च।
बलौघं संविभज्येमं व्यूह्य तिष्ठाम लक्ष्मण॥ ११॥
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्।
निबर्हणं प्रवीराणामृक्षवानररक्षसाम्॥ १२॥
वाता हि परुषं वान्ति कम्पते च वसुंधरा।
पर्वताग्राणि वेपन्ते नदन्ति धरणीधराः॥ १३॥
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वराः।
क्रूराः क्रूरं प्रवर्षन्ते मिश्रं शोणितबिन्दुभिः॥ १४॥
रक्तचन्दनसंकाशा संध्या परमदारुणा।
ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम्॥ १५॥
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम्।
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः॥ १६॥
रजन्यामप्रकाशश्च संतापयति चन्द्रमाः।
कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये॥ १७॥
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः।
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते॥ १८॥
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते।
युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति॥ १९॥
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च।
शिवाश्चाप्यशुभा वाचः प्रवदन्ति महास्वनाः॥ २०॥
शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपिराक्षसैः।
भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा॥ २१॥
क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम्।
अभियाम जवेनैव सर्वतो हरिभिर्वृताः॥ २२॥
इत्येवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः।
तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः॥ २३॥
अवतीर्य तु धर्मात्मा तस्माच्छैलात् स राघवः।
परैः परमदुर्धर्षं ददर्श बलमात्मनः॥ २४॥
संनह्य तु ससुग्रीवः कपिराजबलं महत्।
कालज्ञो राघवः काले संयुगायाभ्यचोदयत्॥ २५॥
ततः काले महाबाहुर्बलेन महता वृतः।
प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम्॥ २६॥
तं विभीषणसुग्रीवौ हनूमाञ्जाम्बवान् नलः।
ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा॥ २७॥
ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम्।
प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम्॥ २८॥
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्।
जगृहुः कुञ्जरप्रख्या वानराः परवारणाः॥ २९॥
तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ।
रावणस्य पुरीं लङ्कामासेदतुररिंदमौ॥ ३०॥
पताकामालिनीं रम्यामुद्यानवनशोभिताम्।
चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम्॥ ३१॥
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः।
यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः॥ ३२॥
लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम्।
रामः सहानुजो धन्वी जुगोप च रुरोध च॥ ३३॥
लङ्कामुपनिविष्टस्तु रामो दशरथात्मजः।
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्॥ ३४॥
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः।
नान्यो रामाद्धि तद् द्वारं समर्थः परिरक्षितुम्॥ ३५॥
रावणाधिष्ठितं भीमं वरुणेनेव सागरम्।
सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः॥ ३६॥
लघूनां त्रासजननं पातालमिव दानवैः।
विन्यस्तानि च योधानां बहूनि विविधानि च॥ ३७॥
ददर्शायुधजालानि तथैव कवचानि च।
पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः॥ ३८॥
अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान्।
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः॥ ३९॥
ऋषभेण गवाक्षेण गजेन गवयेन च।
हनूमान् पश्चिमद्वारं ररक्ष बलवान् कपिः॥ ४०॥
प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च संगतः।
मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत॥ ४१॥
सह सर्वैर्हरिश्रेष्ठैः सुपर्णपवनोपमैः।
वानराणां तु षट‍‍्त्रिंशत्कोट्यः प्रख्यातयूथपाः॥ ४२॥
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः।
शासनेन तु रामस्य लक्ष्मणः सविभीषणः॥ ४३॥
द्वारे द्वारे हरीणां तु कोटिं कोटीर्न्यवेशयत्।
पश्चिमेन तु रामस्य सुषेणः सहजाम्बवान्॥ ४४॥
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः।
ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः।
गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे॥ ४५॥
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः।
सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः॥ ४६॥
दशनागबलाः केचित् केचिद् दशगुणोत्तराः।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः॥ ४७॥
सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः।
अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः॥ ४८॥
अद्भुतश्च विचित्रश्च तेषामासीत् समागमः।
तत्र वानरसैन्यानां शलभानामिवोद‍्गमः॥ ४९॥
परिपूर्णमिवाकाशं सम्पूर्णेव च मेदिनी।
लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः॥ ५०॥
शतं शतसहस्राणां पृतनर्क्षवनौकसाम्।
लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः॥ ५१॥
आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः।
अयुतानां सहस्रं च पुरीं तामभ्यवर्तत॥ ५२॥
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः।
सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना॥ ५३॥
राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः।
वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः॥ ५४॥
महाञ्छब्दोऽभवत् तत्र बलौघस्याभिवर्ततः।
सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः॥ ५५॥
तेन शब्देन महता सप्राकारा सतोरणा।
लङ्का प्रचलिता सर्वा सशैलवनकानना॥ ५६॥
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी।
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः॥ ५७॥
राघवः संनिवेश्यैवं स्वसैन्यं रक्षसां वधे।
सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः॥ ५८॥
आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ।
विभीषणस्यानुमते राजधर्ममनुस्मरन्॥ ५९॥
अङ्गदं वालितनयं समाहूयेदमब्रवीत्।
गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात् कपे॥ ६०॥
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः।
भ्रष्टश्रीकं गतैश्वर्यं मुमूर्षानष्टचेतनम्॥ ६१॥
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा।
नागानामथ यक्षाणां राज्ञां च रजनीचर॥ ६२॥
यच्च पापं कृतं मोहादवलिप्तेन राक्षस।
नूनं ते विगतो दर्पः स्वयंभूवरदानजः।
तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरासदा॥ ६३॥
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः।
दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः॥ ६४॥
पदवीं देवतानां च महर्षीणां च राक्षस।
राजर्षीणां च सर्वेषां गमिष्यसि युधि स्थिरः॥ ६५॥
बलेन येन वै सीतां मायया राक्षसाधम।
मामतिक्रमयित्वा त्वं हृतवांस्तन्निदर्शय॥ ६६॥
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः।
न चेच्छरणमभ्येषि तामादाय तु मैथिलीम्॥ ६७॥
धर्मात्मा राक्षसश्रेष्ठः सम्प्राप्तोऽयं विभीषणः।
लङ्कैश्वर्यमिदं श्रीमान् ध्रुवं प्राप्नोत्यकण्टकम्॥ ६८॥
नहि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया।
शक्यं मूर्खसहायेन पापेनाविदितात्मना॥ ६९॥
युध्यस्व मा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस।
मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि॥ ७०॥
यद्याविशसि लोकांस्त्रीन् पक्षीभूतो निशाचर।
मम चक्षुःपथं प्राप्य न जीवन् प्रतियास्यसि॥ ७१॥
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेहिकम्।
सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम्॥ ७२॥
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा।
जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट्॥ ७३॥
सोऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम्।
ददर्शासीनमव्यग्रं रावणं सचिवैः सह॥ ७४॥
ततस्तस्याविदूरेण निपत्य हरिपुंगवः।
दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः॥ ७५॥
तद् रामवचनं सर्वमन्यूनाधिकमुत्तमम्।
सामात्यं श्रावयामास निवेद्यात्मानमात्मना॥ ७६॥
दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।
वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः॥ ७७॥
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः।
निष्पत्य प्रतियुध्यस्व नृशंस पुरुषो भव॥ ७८॥
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम्।
निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि॥ ७९॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम्॥ ८०॥
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि।
न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि॥ ८१॥
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे।
अमर्षवशमापन्नो निशाचरगणेश्वरः॥ ८२॥
ततः स रोषमापन्नः शशास सचिवांस्तदा।
गृह्यतामिति दुर्मेधा वध्यतामिति चासकृत्॥ ८३॥
रावणस्य वचः श्रुत्वा दीप्ताग्निमिव तेजसा।
जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः॥ ८४॥
ग्राहयामास तारेयः स्वयमात्मानमात्मवान्।
बलं दर्शयितुं वीरो यातुधानगणे तदा॥ ८५॥
स तान् बाहुद्वयासक्तानादाय पतगानिव।
प्रासादं शैलसंकाशमुत्पपाताङ्गदस्तदा॥ ८६॥
तस्योत्पतनवेगेन निर्धूतास्तत्र राक्षसाः।
भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः॥ ८७॥
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम्।
चक्राम राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान्॥ ८८॥
पफाल च तदाक्रान्तं दशग्रीवस्य पश्यतः।
पुरा हिमवतः शृङ्गं वज्रेणेव विदारितम्॥ ८९॥
भङ्‍क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः।
विनद्य सुमहानादमुत्पपात विहायसा॥ ९०॥
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान्।
स वानराणां मध्ये तु रामपार्श्वमुपागतः॥ ९१॥
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात्।
विनाशं चात्मनः पश्यन् निःश्वासपरमोऽभवत्॥ ९२॥
रामस्तु बहुभिर्हृष्टैर्विनदद्भिः प्लवङ्गमैः।
वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत॥ ९३॥
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः।
बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः॥ ९४॥
स तु द्वाराणि संयम्य सुग्रीववचनात् कपिः।
पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः॥ ९५॥
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम्।
लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम्॥ ९६॥
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे।
अपरे समरे हर्षाद्धर्षमेवोपपेदिरे॥ ९७॥
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम्।
ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम्।
हाहाकारमकुर्वन्त राक्षसा भयमागताः॥ ९८॥
तस्मिन् महाभीषणके प्रवृत्ते
कोलाहले राक्षसराजयोधाः।
प्रगृह्य रक्षांसि महायुधानि
युगान्तवाता इव संविचेरुः॥ ९९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकचत्वारिंशः सर्गः ।। ४१ ।।

English Griffith

When Ráma saw each bloody trace
On King Sugríva’s limbs and face,
He cried, while, sorrowing at the view,
His arms about his friend he threw:
“Too venturous chieftain, kings like us
Bring not their lives in peril thus;
Nor, save when counsel shows the need,
Attempt so bold, so rash a deed.
Remember, I, Vibhishaṇ all
Have sorrowed fearing for thy fall.
O do not—for us all I speak—
These desperate adventures seek.”
“I could not,” cried Sugríva, “brook
Upon the giant king to look,
Nor challenge to the deadly strife
The fiend who robbed thee of thy wife.”
“Now Lakshmaṇ, marshal,” Ráma cried,
“Our legions where the woods are wide,
And stand we ready to oppose
The fury of our giant foes.
This day our armies shall ascend
The walls which Rávaṇ’s powers defend,
And floods of Rákshas blood shall stain
The streets encumbered with the slain.”
Down from the peak he came, and viewed
The Vánars’ ordered multitude.
Each captain there for battle burned,
Each fiery eye to Lanká turned.
On, where the royal brothers led
To Lanká’s walls the legions sped.
The northern gate, where giant foes
Swarmed round their monarch, Ráma chose
Where he in person might direct
The battle, and his troops protect.
What arm but his the post might keep
Where, strong as he who sways the deep,949
Mid thousands armed with bow and mace,
Stood Rávaṇ mightiest of his race?
The eastern gate was Níla’s post,
Where marshalled stood his Vánar host,
And Mainda with his troops arrayed,
And Dwivid stood to lend him aid.
The southern gate was Angad’s care,
Who ranged his bold battalions there.
Hanúmán by the port that faced
The setting sun his legions placed,
And King Sugríva held the wood
East of the gate where Rávaṇ stood.
On every side the myriads met,
And Lanká’s walls of close beset
That scarce the roving gale could win
A passage to the hosts within.
Loud as the angry ocean’s roar
When wild waves lash the rocky shore,
Ten thousand thousand throats upsent
A shout that tore the firmament,
And Lanká with each grove and brook
And tower and wall and rampart shook.
The giants heard, and were appalled:
Then Raghu’s son to Angad called,
And, led by kingly duty,950 gave
This order merciful as brave:
“Go, Angad, Rávaṇ’s presence seek,
And thus my words of warning speak:
“How art thou changed and fallen now,
O Monarch of the giants, thou
Whose impious fury would not spare
Saint, nymph, or spirit of the air;
Whose foot in haughty triumph trod
On Yaksha, king, and Serpent God:
How art thou fallen from thy pride
Which Brahmá’s favour fortified!
With myriads at thy Lanká’s gate
I stand my righteous ire to sate,
And punish thee with sword and flame,
The tyrant fiend who stole my dame.
Now show the might, employ the guile,
O Monarch of the giants’ isle,
Which stole a helpless dame away:
Call up thy power and strength to-day.
Once more I warn thee, Rákshas King,
This hour the Maithil lady bring,
And, yielding while there yet is time,
Seek, suppliant, pardon for the crime,
Or I will leave beneath the sun
No living Rákshas, no, not one.
In vain from battle wilt thou fly,
Or borne on pinions seek the sky;
The hand of Ráma shall not spare;
His fiery shaft shall smite thee there.’ ”

 He ceased: and Angad bowed his head;
Thence like embodied flame he sped,
And lighted from his airy road
Within the Rákshas king’s abode.
There sate, the centre of a ring
Of counsellors, the giant king.
Swift through the circle Angad pressed,
And spoke with fury in his breast:
“Sent by the lord of Kośal’s land,
His envoy here, O King, I stand,
Angad the son of Báli: fame
Has haply taught thine ears my name.
Thus in the words of Ráma I
Am come to warn thee or defy:
Come forth, and fighting in the van
Display the spirit of a man.
This arm shall slay thee, tyrant: all
Thy nobles, kith and kin shall fall:
And earth and heaven, from terror freed,
Shall joy to see the oppressor bleed.
Vibhishaṇ, when his foe is slain,
Anointed king in peace shall reign.
Once more I counsel thee: repent,
Avoid the mortal punishment,
With honour due the dame restore,
And pardon for thy sin implore.”

 Loud rose the king’s infuriate cry:
“Seize, seize the Vánar, let him die.”
Four of his band their lord obeyed,
And eager hands on Angad laid.
He purposing his strength to show
Gave no resistance to the foe,
But swiftly round his captors cast
His mighty arms and held them fast.
Fierce shout and cry around him rang:
Light to the palace roof he sprang,
There his detaining arms unwound,
And hurled the giants to the ground.
Then, smiting with a fearful stroke,
A turret from the roof he broke,—
As when the fiery levin sent
By Indra from the clouds has rent
The proud peak of the Lord of Snow,—
And flung the stony mass below.
Again with loud terrific cry
He sprang exulting to the sky,
And, joyous for his errand done,
Stood by the side of Raghu’s son.

Griffith’s notes (2)
  1. Varuṇa.
  2. The duty of a king to save the lives of his people and avoid bloodshed until milder methods have been tried in vain.

Hall of Raziel™ · Raziel’s Library™ · from Raziel’s Mercy™, a lost Android recovery system.

English: Ralph T. H. Griffith, The Rámáyan of Válmíki, translated into English verse, 5 vols. (London: Trübner & Co.; Benares: E. J. Lazarus and Co., 1870–1874), public domain. Transcription: Project Gutenberg eBook #24869 (Distributed Proofreaders). Sanskrit: Sanskrit Wikisource. The ancient text is public domain; Wikisource page text is shared under CC BY-SA 4.0.