Hall of Raziel™ , found with , and of the Ages Raziel's Mercy™ Found a phone? Raziel's Mercy™ shows a calm blessing screen with a simple invitation: call the owner. A masked Call button reaches them without showing their number. No pressure. No threats. For finders → Raziel's Library™ Raziel's Library™ holds Sefer Raziel ha-Malakh (Amsterdam 1701, Hebrew and English, six parts), the Gutenberg Bible (Genesis, Exodus, Leviticus, 3 Esdras, Judith, Esther, Job and Psalms), 1 Enoch, Jubilees, and the Book of Giants. Enter the Library → Hall of Raziel™ chat room Coming Soon. In the meantime, join us on RUEZALS.chat. Enter RUEZALS.chat Raziel's Mercy™ A lost Android recovery system. When your phone is lost, Mercy turns its screen into a calm, clear, kind blessing so whoever finds it knows how to help. If the phone can't come home, remote erase is there as the last safeguard. How Mercy works → Raziel speaks (paraphrased)
Hall of Raziel™ › Library › Hindu › Mahabharata › Book 13 › Section LXIV

Mahabharata · Book 13 · Anushasana Parva

Mahabharata, Book 13, Section LXIVअनुशासनपर्व

Kisari Mohan Ganguli’s English prose (1883–96), beside the Sanskrit of adhyāya 13.64.

64Sanskrit adhyāya 13.64 · Sanskrit source · English source

Sanskrit

भीष्मेण युधिष्ठिरम्प्रति नद्यादितीर्थानां तत्तन्नामविशेषनिर्देशेन तत्सेवनफलप्रतिपादकगौतमाङ्गिरःसंवादानुवादः।। 1 ।।
युधिष्ठिर उवाच।
तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ।
श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः।
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ।
वक्तुमर्हसि मे तानि श्रोताऽस्मि नियतं प्रभो।।
भीष्म उवाच।
इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते।
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम्।।
तपोवनगतं विप्रमभिगम्य महामुनिम्।
पप्रच्छाङ्गिरसं धीरं गौतमः संशितव्रतः।
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः।
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने।।
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने।
प्रेत्यभावे महाप्राज्ञ तद्यथाऽस्ति तथा वद।।
अङ्गिरा उवाच।
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम्।
विगाह्य वै निराहारो निर्मलो मुनिवद्भवेत्।।
काश्मीरमण्डले नद्यो याः पतन्ति महास्वनम्।
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात्।।
पुष्करं च प्रभासं च नैमिषं सागरोदकम्।
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च।।
विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः।
हिरण्यबिन्दुमालक्ष्य प्रयतश्चाभिवाद्य च।।
कुशेशये च देवत्वं धूयते तस्य किल्बिषम्।
इन्द्रतोयां समासाद्य गन्धमादनसन्निधौ।।
करतोयां कुरुङ्गे च त्रिरात्रोपोषितो नरः।
अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः।।
गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते।
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत्।।
अपां ह्रद उपस्पृश्य वाजिमेधफलं लभेत्।
ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः।।
यत्र भागीरथी गङ्गा वहते दिशमुत्तरम्।
महेश्वरस्य त्रिस्थाने यो नरस्त्वभिषिच्यते।।
एकमासं निराहारः स पश्यति हि देवताः।
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन्।।
अर्थान्वै लभते भोक्तुं यो नरो जायते पुनः।
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः।।
एकमासं निराहारः सिद्धिं मासेन स व्रजेत्।
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः।।
त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया।
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः।।
देवेषु लभते कीर्तिं यशसा च विराजते।।
देविकायामुपस्पृश्य तथा सुन्दरिकाह्रदे।
अश्विन्यां रूपवर्चस्कं प्रेत्य वै लभते नरः।।
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा।
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः।।
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा।
निवासेऽप्सरसां दिव्ये कामचारी महीयते।।
कालिकाश्रममासाद्य विपाशायां कृतोदकः।
ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते भवात्।।
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन्।
तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात्।।
महाकूपमुपस्पृश्य त्रिरात्रोपोषितः शुचिः।
त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत्।।
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः।
देवशब्दमवाप्नोति सप्तरात्रोषितः शुचिः।।
शरस्तम्बे कुशस्तम्बे द्रोणशर्मपदे तथा।
अपांप्रपतनासेवी सेव्यते सोप्सरोगणैः।।
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले।
विगाह्य वै निराहारो राजलक्ष्म्या निषेव्यते।।
श्यामायास्त्वाश्रमं गत्वा उषित्वा चाभिषिच्य च।
एकपक्षं निराहारस्त्वन्तर्धानफलं लभेत्।।
कौशिकीं तु समासाद्य वायुभक्षस्त्वलोलुपः।
एकविंशतिरात्रेण स्वर्गमारोहते नरः।।
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति।
विगाहति ह्यनालम्बमन्धकं वै सनातनम्।।
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः।
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः।।
गङ्गाह्रद उपस्पृस्य तथा चैवोत्पलावने।
अश्वमेघमवाप्नोति तत्र मासं कृतोदकः।।
गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ।
दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः।।
यष्टिह्रद उपस्पृश्य चान्नदानाद्विशिष्यते।।
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथाऽपराः।
समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ।।
माघमासं प्रयागे तु नियतः संशितव्रतः।
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात्।।
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः।
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः।।
तथा ब्रह्मसरो गत्वा भागीरथ्यां कृतोदकः।
एकमासं निराहारः सोमलोकमवाप्नुयात्।।
उत्पातके नरः स्नात्वा अष्टावक्रे कृतोदकः।
द्वादशाहं निराहारो नरमेधफलं लभेत्।।
अश्मपृष्ठे गयायां च निरविन्दे च पर्वते।
तृतीयां क्रौञ्चपद्यां च ब्रह्महत्यां विशुध्यते
कलविङ्क उपस्पृश्य विद्याच्च बहुशो जलम्।
अग्नेः पुरे नरः स्नात्वा अग्निकन्यापुरे वसेत्।।
करवीरपुरे स्नात्वा विशालायां कृतोदकः।
देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते।।
पुनरावर्तनन्दां च महानन्दां च सेव्य वै।
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः।।
उर्वशीं कृत्तिकायोगे गत्वा चैव समाहितः।
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत्।।
रामह्रद उपस्पृश्य विपाशायां कृतोदकः।
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते।।
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः।
एकमासं निराहारो जमदग्निगतिं लभेत्।।
विन्ध्ये संताप्य चात्मानं सत्यसन्धस्त्वहिंसकः।
विनयात्तप आस्थाय मासेनैकेन सिध्यति।।
`मुण्डे ब्रह्मगवा चैव निरिचिं देवपर्वतम्।
देवह्रदमुपस्पृश्य ब्रह्मभूतो विराजते।
कुमारपदमास्थाय मासेनैकेन शुध्यति।।'
नर्मदायामुपस्पृश्य तता शूर्पारकोदके।
एकपक्षं निराहारो राजपुत्रो विधीयते।।
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः।
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति।।
कोकामुखे विगाह्याथ गत्वा चाञ्जलिकाश्रमम्।
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश।।
वैवस्वतस्य सदनं न स गच्छेत्कदाचन।
प्रभासे त्वेकरात्रेण अमावास्यां ममाहितः।
सिद्ध्यते तु महाबाहो यो नरो जायतेऽमरः।।
उज्जानक उपस्पृस्य आर्ष्टिषेणस्य चाश्रमे।
पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते।।
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम्।
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः।।
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः।
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः।।
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्।
पुण्डरीकमवाप्नोति उपस्पृश्य नरः शुचिः।।
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च।
कामं जित्वा च वै मासं सर्वयज्ञफलं लभेत्।।
कालोदकं नन्दिकुण्डं तथा चोत्तरमानसम्।
अभ्येत्य योजनशताद्भूणहा विप्रमुच्यते।।
नन्दीश्वरस्य मूर्ति तु दृष्ट्वा मुच्येत किल्बिषैः।
स्वर्गमार्गे नरः स्नात्वा ब्रह्मलोकं स गच्छति।।
विख्यातो हिमवान्पुण्यः शंकरश्वशुरो गिरिः।
आकरः सर्वरत्नानां सिद्धचारणसेवितः।।
दर्शनाद्गमनात्पूतो भवेदनशनादपि।'
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके।।
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः।
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा।
ततः क्रोधं च लोभं च यो जित्वा तीर्थमावसेत्।
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत्।।
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च।
मनसा तानि गम्यानि सर्वतीर्थसमीक्षया।।
इदं मेध्यमिदं पुण्यमिदं स्वर्ग्यमनुत्तमम्।
इदं रहस्यं वेदानामाप्लाव्यं पावनं तथा।।
इदं दद्याद्‌द्विजातीनां साधोरात्महितस्य च।
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च।
दत्तवान्गौतमस्यैतदङ्गिरा वै महातपाः।
अङ्गिराः समनुज्ञातः काश्यपेन च धीमता।।
महर्षीणामिदं जप्यं पावनानां तथोत्तमम्।
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात्।।
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम्।
उत्तमे च कुले जन्म लभेञ्जातीश्च संस्मरेत्।।
।। इति श्रीमन्महाभारते अनुसासनपर्वणि
दानधर्मपर्वणि चतुःषष्टितमोऽध्यायः।। 64 ।।
तीर्थवंशं तीर्थसंघम्।।
तीर्थेभ्यः तीर्थान्युद्दिश्य।।
प्रेत्यभावे जन्मान्तरे।।
मुनिवद्भवेत् मुनीनां गतिं लभेतेत्यर्थः।।
सिंधुं समुद्रं पतन्तीत्यन्वयः।।
स्वर्गबिन्दुं विगाह्येति थ.ध. पाठः।।
रूपवर्चसोः समाहारः रूपवर्चस्कम्। वर्चस्तेजः।।
त्रसानां जङ्गमानाम्।।
अन्तर्धानफलं गन्धर्वादिभोगम्।।
कालाञ्जने गिराविति थ.ध.पाठः।।
समागच्छन्त्यगावास्यामिति थ.पाठ।।
उर्वशीं उर्वशीतीर्थम्। कृत्तिकायोगे कार्तिक्यां पौर्णमास्याम्।।
इदं तीर्थसेवनम्। मेध्यं यज्ञफलप्रदम्। पुण्यं पापघ्नम्।।
समनुज्ञातः प्रार्थितः। काश्यपेन एतद्विज्ञातुकामेनेति शेषः।।
वर्गः:महाभारतम्/अनुशासनपर्व

English Ganguli

"'Yudhishthira said, "I have heard the discourse regarding the ordinance about the gift of food. Do thou discourse to me now about the conjunction of the planets and the stars in relation to the subject of making gifts."[334]

"'Bhishma said, "In this connection is recited this ancient narrative of the discourse between Devaki and Narada, that foremost of Rishis. Once on a time when Narada of godlike feature and conversant with every duty arrived at Dwaraka, Devaki asked him this question. Unto her that had asked him, the celestial Rishi Narada duly answered in the following words. Do thou hear as I recite them.

"'"Narada said, 'By gratifying, O blessed lady, deserving Brahmanas with Payasa mixed with ghee, under the constellation Krittika one attains to regions of great happiness.[335] Under the constellation Rohini, one should for freeing oneself from the debt one owes to the Brahmanas make gift unto them of many handfuls of venison along with rice and ghee and milk, and other kinds of edibles and drinks. One giving away a cow with a calf under the constellation called Somadaivata (or Mrigasiras), proceeds from this region of human beings to a region in heaven of great felicity. One undergoing a fast and giving away Krisara mixed with sesame, transcends all difficulties in the next world, including those mountains with rocks sharp as razors. By making gifts, O beautiful lady, of cakes and other food under the constellation Punarvasu one becomes possessed of personal beauty and great fame and takes birth in one's next life in a family in which there is abundance of food. Making a gift of wrought or unwrought gold, under the constellation Pushya, one shines in effulgence like Soma himself in regions of surrounding gloom. He who makes a gift, under the constellation Aslesha, of silver or a bull, becomes freed from every fear and attains to great affluence and prosperity. By making a gift, under the constellation Magha, of earthen dishes filled with sesame, one becomes possessed of children and animals in this world and attains to felicity in the next.[336] For making gifts unto Brahmanas, under the constellation called Purva-Phalguni of food mixed with Phanita the giver observing a fast the while, reward is great prosperity both here and hereafter.[337] By making a gift, under the constellation called Uttara-Phalguni, of ghee and milk with rice called Shashthika, one attains to great honours in heaven. Whatever gifts are made by men under the constellation of Uttara-Phalguni produce great merit, which, again, becomes inexhaustible. This is very certain. Observing a fast the while, the person that makes, under the constellation Hasta, a gift of a car with four elephants, attains to regions of great felicity that are capable of granting the fruition of every wish. By making a gift, under the constellation Chitra, of a bull and of good perfumes, one sports in bliss in regions of Apsaras like the deities sporting in the woods of Nandana. By making gifts of wealth under the constellation Swati, one attains to such excellent regions as one desires and wins besides great fame. By making gifts, under constellation Visakha, of a bull, and a cow that yields a copious measure of milk, a cart full of paddy, with a Prasanga for covering the same, and also cloths for wear,[338] a person never meets with any calamity and certainly reaches heaven. By making gifts unto the Brahmanas of whatever articles they solicit, one attains to such means of subsistence as one desires, and becomes rescued from hell and every calamity that visits a sinner after death. This is the certain conclusion of the scriptures. By making gifts, under the constellation Anuradha of embroidered cloth and other vestments and of food, observing a fast the while, one becomes honoured in heaven for a hundred Yugas. By making a gift under the constellation Jyeshtha, of the potherb called Kalasaka with the roots, one attains to great prosperity as also to such an end as is desirable. By making unto Brahmanas a gift under the constellation Mula, of fruits and roots, with a restrained soul, one gratifies the Pitris and attains to a desirable end. By making under the constellation Purvashadha, a gift, unto a Brahmana conversant with the Vedas and of good family and conduct, of cups filled with curds, while one is in the observance of a fast, one takes birth in one's next life in a family possessed of abundant kine. One obtains the fruition of every wish, by making gifts, under the constellation Uttarashadha, of jugs full of barley-water, with ghee and inspissated juice of sugarcane in abundance. By making a gift under the conjunction called Abhijit, of milk with honey and ghee unto men of wisdom, a righteous person attains to heaven and becomes an object of attention and honour there. By making under the conjunction Sravana, a gift of blankets or other cloth of thick texture, one roves freely through every region of felicity, riding on a white car of pure resplendence. By making with a restrained soul, under the constellation Dhanishtha, a gift of a vehicle with bulls yoked thereto, or heaps of cloths and wealth, one at once attains to heaven in one's next life. By making gifts, under the constellation Satabhisha, of perfumes with Aquilaria Agallocha and sandalwood, one attains in the next world to the companionship of Apsaras as also eternal perfumes of diverse kinds. By making gifts, under the constellation Purva-Bhadrapada, or Rajamasha, one attains to great happiness in the next life and becomes possessed of an abundant stock of every kind of edibles and fruits.[339] One who makes, under the constellation Uttara, a gift of mutton, gratifies the Pitris by such an act attains to inexhaustible merit in the next world. Unto one who makes a gift, under the constellation Revati, of a cow with a vessel of white copper for milking her, the cow so given away approaches in the next world, ready to grant the fruition of every wish. By making a gift, under the constellation Aswini, of a car with steeds yoked thereto, one is born in one's next life in a family possessed of numerous elephants and steeds and cars, and becomes endued with great energy. By making, under the constellation Bharani, a gift unto the Brahmanas of kine and sesame, one acquires in one's next life great fame and an abundance of kine.'"

"'Bhishma continued, "Even thus did Narada discourse unto Devaki upon the subject of what gifts should be made under what constellations. Devaki herself, having listened to this discourse, recited it in her turn unto her daughters-in-law (viz., the spouses of Krishna)."'"

Hall of Raziel™ · Raziel’s Library™ · from Raziel’s Mercy™, a lost Android recovery system.

English: Kisari Mohan Ganguli, The Mahabharata of Krishna-Dwaipayana Vyasa, translated into English Prose from the Original Sanskrit Text (Calcutta: Bharata Press, 1883–1896), public domain. Transcription: Project Gutenberg #15474, #15475, #15476, #15477 (from the sacred-texts.com scan, J. B. Hare / Distributed Proofreaders). Sanskrit: Sanskrit Wikisource. The ancient text is public domain; Wikisource page text is shared under CC BY-SA 4.0.