Hall of Raziel™ , found with , and of the Ages Raziel's Mercy™ Found a phone? Raziel's Mercy™ shows a calm blessing screen with a simple invitation: call the owner. A masked Call button reaches them without showing their number. No pressure. No threats. For finders → Raziel's Library™ Raziel's Library™ holds Sefer Raziel ha-Malakh (Amsterdam 1701, Hebrew and English, six parts), the Gutenberg Bible (Genesis, Exodus, Leviticus, 3 Esdras, Judith, Esther, Job and Psalms), 1 Enoch, Jubilees, and the Book of Giants. Enter the Library → Hall of Raziel™ chat room Coming Soon. In the meantime, join us on RUEZALS.chat. Enter RUEZALS.chat Raziel's Mercy™ A lost Android recovery system. When your phone is lost, Mercy turns its screen into a calm, clear, kind blessing so whoever finds it knows how to help. If the phone can't come home, remote erase is there as the last safeguard. How Mercy works → Raziel speaks (paraphrased)
Hall of Raziel™ › Library › Hindu › Mahabharata › Book 13 › Section CXXXI

Mahabharata · Book 13 · Anushasana Parva

Mahabharata, Book 13, Section CXXXIअनुशासनपर्व

Kisari Mohan Ganguli’s English prose (1883–96), beside the Sanskrit of adhyāya 13.131.

131Sanskrit adhyāya 13.131 · Sanskrit source · English source

Sanskrit

तारकासुरबाधितैर्देवैर्ब्रह्माणं प्रति स्वेषां पार्वतीशापेनानपत्यत्वकथनपूर्वकमसुरवधोपायकथनप्रार्थना।। 1 ।।
ब्रह्मणां देवान्प्रति अग्नेरसन्निहितत्वेन देवीशापाविषयतया देवेन स्ववीर्यनिरोधकाले भुवि प्रस्कन्नकिञ्चिद्वीर्यांशस्य तस्मिन्संसृष्टतया च तेन गङ्गायां कुमारोत्पादनकथनेनाग्न्यन्वेषणचोदना।। 2 ।।
अग्निना देवानां प्रार्थनया गङ्गायां स्वयंसृष्टरुद्रवीर्याधानम्।। 3 ।।
गङ्ग्याऽग्निता स्वस्मिन्नाहितगर्भस्य मेरुगिरौ समुत्सर्जने तदीयतेजोव्याप्तयावद्वस्तूनां काञ्चनीभावप्राप्तिः।। 4 ।।
एवं भीष्मेण सुवर्णोत्पत्तिप्रकारकथनम्।। 5 ।।
देवा ऊचुः।
असुरस्तारको नाम त्वया दत्तवरः प्रभो।
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम्।।
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह।
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः।।
ब्रह्मोवाच।
समोहं सर्वभूतानामधर्मं नेह रोचये।
हन्यतां तारकः क्षिप्र सुरर्षिगणबाधिता।।
वेदा धर्माश्च नोच्छेदं गच्छेयुः सुरसत्तमाः।
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः।।
देवा ऊचुः।
वरदानाद्भगवतो दैतेयो बलगर्वितः।
देवैर्न शक्यते हन्तु स कथं प्रशमं व्रजेत्।।
स हि नैव स्म देवानां नासुराणां न रक्षसाम्।
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह।।
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते।
न भविष्यति वोऽपत्यमिति सर्वे जगत्पते।।
ब्रह्मोवाच।
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः।
स उत्पादयिताऽपत्यं वधाय त्रिदशद्विषाम्।।
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान्।
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः।।
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति।
यतो वो भयपुत्पन्नं ये चान्ये सुरशत्रवः।।
सनातनो हि सङ्कल्पः काम इत्यभिधीयते।
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च यत्।।
तत्तजोऽग्निर्महद्भूतं द्वितीयमिव पावकम्।
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति।।
स तु नावाप तं शापं नष्टः स हुतभुक्तदा।
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः।।
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्।
तारकस्य वधोपायः कथितो वै मयाऽनघाः।।
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै।
बलान्यतिबलं प्राप्य दुर्बलानि भवन्ति वै।।
हन्यादवध्यान्वरदानपि चैव तपस्विनः।
सङ्कल्पाभिरुचिः कामः सनातनतमोऽभवत्।।
जगत्पतिरनिर्देश्य सर्वगः सर्वभावनः।
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः।।
अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः।
स वो मनोगतं कामं देवः सम्पादयिष्यति।।
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः।
जग्मु- संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम्।।
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह।
काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः।।
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः।
लोकानन्वचरन्सिद्धाः सर्व एव भृगूत्तम।
नष्टमात्मनि संलीनं नाभिजग्मुर्हुताशनम्।।
ततः संजातसंत्रासानग्निदर्शनलालसान्।
जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः।
उवाच देवान्मण्डूको रसातलतलोत्थितः।
रसातलतले देवा वसत्यग्निरिति प्रभो।
सन्तापादिह सम्प्राप्तः पावकप्रभवादहम्।।
स संसुप्तो जले देवा भगवान्हव्यवाहनः।
अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम्।।
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः।
तत्रैवमधिगच्छध्वं कार्यं वो यदि वह्निना।।
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः।
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत्।।
हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम्।
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै।।
तं वै संयुज्य शापेन मण्डूकं त्वरितो ययौ।
अन्यत्र वासाय विभुर्न चात्मानमदर्शयत्।।
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूत्तम।
यत्तच्छृणु महाबाहो गदतो मम सर्वशः।।
देवा ऊचुः।
अग्निशापादजिह्वाऽपि रसज्ञानबहिष्कृताः।
सरस्वतीं बहुविधां यूममुच्चारयिष्यथ।।
बिलवासं गतांश्चैव निराहारानचेतसः।
गतासूनपि वः शुष्कान्भूमिः सन्धारयिष्यति।।
तमोघनायामपि वै निशायां विचरिष्यथ।
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम्।।
परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम्।
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः।।
अश्वत्थस्थोऽग्निरित्येवमाह देवान्भृगूद्वह।
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्च्छितः।।
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह।
इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः।
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया।।
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो।
देवा भृगुकुलश्रेष्ठ प्रीत्या सत्यपराक्रमाः।।
देवा ऊचुः।
प्रतीपया जिह्वयाऽपि सर्वाहारान्हरिष्यथ।
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षराम्।
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः।।
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भमुपाविशत्।
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन्।।
शशाप सुकमग्निस्तु वाग्विहीनो भविष्यसि।
जिह्वामावर्तयामास तस्यापि हुतभुक्तदा।।
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः।
भविता न त्वमत्यन्तं शुकत्वे नष्टवागिति।।
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति।
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम्।।
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः।
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि।।
तदाप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते।
उत्पादने तथोपायमभिजग्मुश्च मानवाः।।
आपो रसातले यास्तु संस्पृष्टाश्चित्रभानुना।
ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव।
पावकेनाधिशयता सन्तप्तास्तस्य तेजसा।।
अथाग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा।
किमागमनमित्येवं तानपृच्छत पावकः।।
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः।
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति।
कृते च तस्मिन्भविता तवापि सुमहान्गुणः।।
अग्निरुवाच।
ब्रूत यद्भवतां कार्यं कर्तास्मि तदहं सुराः।
भवतां तु नियोज्योस्मि मावोत्रास्तु विचारणा।।
देवा ऊचुः।
असुरस्तारको नाम ब्रह्मणो वरदर्पितः।
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम्।।
इमान्देवगणांस्तात प्रजापतिगणांस्तथा।
ऋषींश्चापि महाभाग परित्रायस्व पावक।।
अपत्यं तेजसा युक्तं प्रवीरं जनयक प्रभो।
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन।।
शप्तानां नो महादेव्या नान्यदस्ति परायणम्।
अन्यत्र भवतो वीर तस्मात्त्रायस्व नः प्रभो।।
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यवाहनः।
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति।।
तया चाप्यभवन्मिश्रो गर्भं चास्यां दधे तदा।
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा।।
तेजसा तस्य देवस्य गङ्गा विह्वलचेतना।
सन्तापमगमत्तीव्रं वोढुं सा न शशाक ह।।
आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते।
गङ्गायामसुरः कश्चिद्भैरवं नादमानदत्।।
अबुद्धिपतितेनाथ नादेन विपुलेन सा।।
वित्रस्तोद्धान्तनयना गङ्गा विप्लुतलोचना।।
विसंज्ञा नाशकद्गर्भं वोढुमात्मानमेव च।
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी।।
उवाच ज्वलनं विप्र तदा गर्भबलोद्धुता।
नते शक्ताऽस्मि भगवंस्तेजसोऽस्य विधारणे।।
विमूढाऽस्मि कृताऽनेन न मे स्वास्ध्यं यथा पुरा।
विह्वला चास्मि भगवंश्चेतो नष्टं च मेऽनघ
धारणे नास्य शक्ताऽहं गर्भस्य तपतांवर।
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन।।
न तेजसाऽस्ति संस्पर्शो मम देव विभावसो।
आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते।।
यदत्र गुणसम्पन्नमितरद्वा हुताशन।
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ।।
तामुवाच ततो वह्निर्धार्यतां धार्यतामिति।
गर्भो मत्तेजसा युक्तो महागुणफलोदयः।।
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा।
न हि ते किञ्चिदप्राप्यमन्यतो धारणादृते।।
एवमुक्ता तु सा देवी तत्रैवान्तरधीयत।
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्।
जगामेष्टं तदा देशं ततो भार्गवनन्दन।।'
सा वह्निना वार्यमाणा देवैरपि सरिद्वरा।
समुत्ससर्ज तं गर्भं मेरौ गिरिवेर तदा।।
समर्था धारणे चापि रुद्रतेजःप्रधर्षिता।
नाशकत्सा तदा गर्भं सन्धारयितुमोजसा।
समुत्ससर्ज तं दुःखाद्दीप्तवैश्वानरप्रभम्।।
दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह।
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः।।
कीदृग्गुणोपि वा देवि कीदृग्रूपश्च दृश्यते।
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे।।
गङ्गोवाच।
जातरूपः स गर्भो वै तेजसा त्वमिवानघ।
सुवर्णो विमलो दीप्तः पर्वतं चावभासयन्।।
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः।
गन्धोस्य स कदम्बानां तुल्यो वै तपतांवर।।
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः।
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु च।
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत।।
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च।
व्यादीपयत्तेजसा च त्रैलोक्यं सचराचरम्।।
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन।
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः।।
वसिष्ठ उवाच।
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत।
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्।
जगामेष्टं ततो देशं तदा भार्गवनन्दन।।
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते।
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा।
पृथिवी च तदा देवी ख्याता वसुमतीति वै।।
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः।
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः।।
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्।
जातस्नेहास्तु तं बालं पुपुषुः स्तन्यविस्रवैः।।
ततः स कार्तिकेयत्वमवाप परमद्युतिः।
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत्।।
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः।
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम्।।
ततःप्रभृति चाप्येतञ्जातरूपमुदाहृतम्।
रत्नानामुत्तमं रत्नं भूषणानां तथैव च।।
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्।
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः।।
पवित्राणां पवित्रं हि कनकं द्विजसत्तमाः।
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकत्रिंशदधिकशततमोऽध्यायः।। 131 ।।
नष्टः अदर्शं गतः।।
कामः काम्यमानो वह्निः।।
नष्टं अदर्शनं गतम्। आत्मनि जले जलस्य तेजोजन्यत्वात्।।
मृग्यतां साधयिष्याम इति थ.ध.पाठः।।
न रसानिति। रसनेन्द्रियहीनो भविष्यसीत्यर्थः।।
नच देवानदर्शयदिति थ.ध.पाठः।।
अजिह्वा अपीति च्छेदः।।
जिह्वां च कर्तयामासेति ड.पाठः।।
बालस्येव प्रवृत्तस्येति ड.थ.ध.पाठः।।
ऊष्मा ऊष्माणम्। अदिशयता अधिशयानेन। पावकेनाधिशयिता इति ट.ध.पाठः।।
दधे आदधे। गर्भश्वास्याभवत्तदेति थ.पाठः।।
सोढुं सा न शशाक हेति थ.पाठः।।
अबुद्धिपतितेन अकस्माज्जातेन।।
न चेतसास्ति संस्पर्श इति थ.पाठः।।
कदम्बानां कदम्बपुष्पाणाम्।।
अग्निष्टोमात्मकं चैवेति थ.ध.पाठः।।
वर्गः:महाभारतम्/अनुशासनपर्व

English Ganguli

"'Bhishma said, "Then all the highly blessed deities and the Pitris, and the highly blessed Rishis also, addressing the Pramathas, said,[557] 'Ye are all highly blessed beings. Ye are invisible wanderers of the night. Why do you afflict those men that are vile and impure and that are unclean? What acts are regarded as impediments to your power? What, indeed, are those acts in consequence of which ye become incompetent to afflict men? What are those acts that are destructive of Rakshasas and that prevent you from asserting your power over the habitations of men? Ye wanderers of the night, we desire to hear all this from you.'

"'"The Pramathas said, 'Men are rendered unclean by acts of sexual congress. They who do not purify themselves after such acts, they who insult their superiors, they who from stupefaction eat different kinds of meat, the man also who sleeps at the foot of a tree, he who keeps any animal matter under his pillow while lying down for sleep, and he who lies down or sleeps placing the head where his feet should be placed or his feet where the head should be placed,—these men are regarded by us as unclean. Verily, these men have many holes. Those also are numbered in the same class who throw their phlegm and other unclean secretions into the water. Without doubt these men deserve to be slain and eaten up by us. Verily, we afflict those human beings who are given to such conduct. Listen now to what those acts are which are regarded as antidotes and in consequence of which we fail to do any injury to men. Those men upon whose persons occur streaks of Gorochana, or who hold Vachas in their hands, or who make gifts of ghee with those ingredients that go by the name of Akshata, or who place ghee and Akshata on their heads, or those who abstain from meat are incapable of being afflicted by us. That man in whose house the sacred fire burns day and night without being ever put out, or who keeps the skin or teeth of a wolf in his abode or a hill-tortoise, or from whose habitation the sacrificial smoke is seen to curl upwards, or who keeps a cat or a goat that is either tawny or black in hue, is free from our power. Verily, those householders who keep these things in their houses always find them free from the inroads of even the fiercest spirits that live on carrion. Those beings also, that like us range through different worlds in pursuit of pleasure, are unable to do any injury to such houses. Hence, ye deities, should men keep such articles in their houses,—articles that are destructive of Rakshasas (and other beings of the kind). We have thus told you everything about that respecting which ye had great doubts.'"'"

Hall of Raziel™ · Raziel’s Library™ · from Raziel’s Mercy™, a lost Android recovery system.

English: Kisari Mohan Ganguli, The Mahabharata of Krishna-Dwaipayana Vyasa, translated into English Prose from the Original Sanskrit Text (Calcutta: Bharata Press, 1883–1896), public domain. Transcription: Project Gutenberg #15474, #15475, #15476, #15477 (from the sacred-texts.com scan, J. B. Hare / Distributed Proofreaders). Sanskrit: Sanskrit Wikisource. The ancient text is public domain; Wikisource page text is shared under CC BY-SA 4.0.