Hall of Raziel™ , found with , and of the Ages Raziel's Mercy™ Found a phone? Raziel's Mercy™ shows a calm blessing screen with a simple invitation: call the owner. A masked Call button reaches them without showing their number. No pressure. No threats. For finders → Raziel's Library™ Raziel's Library™ holds Sefer Raziel ha-Malakh (Amsterdam 1701, Hebrew and English, six parts), the Gutenberg Bible (Genesis, Exodus, Leviticus, 3 Esdras, Judith, Esther, Job and Psalms), 1 Enoch, Jubilees, and the Book of Giants. Enter the Library → Hall of Raziel™ chat room Coming Soon. In the meantime, join us on RUEZALS.chat. Enter RUEZALS.chat Raziel's Mercy™ A lost Android recovery system. When your phone is lost, Mercy turns its screen into a calm, clear, kind blessing so whoever finds it knows how to help. If the phone can't come home, remote erase is there as the last safeguard. How Mercy works → Raziel speaks (paraphrased)
Hall of Raziel™ › Library › Hindu › Mahabharata › Book 12 › Section CCCLVII

Mahabharata · Book 12 · Shanti Parva

Mahabharata, Book 12, Section CCCLVIIशान्तिपर्व

Kisari Mohan Ganguli’s English prose (1883–96), beside the Sanskrit of adhyāya 12.357.

357Sanskrit adhyāya 12.357 · Sanskrit source · English source

Sanskrit

श्रीनारायणेन स्वनाभिपद्मो ब्रह्मणः सर्जनम्।। 1।।
ततो मधुकैटभयोरुत्पादनम्।। 2।।
ताभ्यां ब्रह्मणो वेदापहरणम्।। 3।।
हयशिरोरूपिणा हरिणा ब्रह्मणे पुनर्वेदप्रत्यर्पणपूर्वकं मधुकैटभसंहरणम्।। 4।।
वैशंपायनेन जनमेजयाय श्रीनारायणमहिमानुवर्णनम्।। 5।।
शौनक उवाच।
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः।
जन्मधर्मगृहे चैव नरनारायणात्मकम्।।
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी।
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः।।
तथा स नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयाऽनघ।
हव्यकव्यभुजो विष्णुरुदक्पूर्वे महोदधौ।।
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत्।
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना।।
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा।
रूपं प्रभावं महतामपूर्वं धीमतांवर।।
दृष्ट्वा हि विवुधश्रेष्ठमपूर्वममितौजसम्।
तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने।।
एतन्नः संशयं ब्रह्मन्पुराणं ब्रह्मसंभवम्।
कथयस्वोत्तममते महापुरुषसंश्रितम्।
पाविताः स्म त्वया ब्रह्मन्पुण्याः कथय ताः कथाः।।
सौतिरुवाच।
कथयिष्यामि ते सर्वं पुराणं वेदसंमितम्।
जगौ यद्भगवान्व्यासो राज्ञः पारिक्षितस्य वै।।
श्रुत्वाऽश्वशिरसो मूर्ति देवस्य हरिमेधसः।
उत्पन्नसंशयो राजा एतदेवमचोदयत्।।
जनमेजय उवाच।
यत्तद्दर्शितवान्ब्राह्म देवं हयशिरोधरम्।
किमर्थं तत्समभवद्वपुर्देवोपकल्पितम्।।
वैशंपायन उवाच।
यत्किंचिदिह लोके वै देहबद्धं विशांपते।
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः।।
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्।
भूतान्तरात्मा वरदः सगुणो निर्गुणोपि च।।
भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम।।
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा।
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले।।
वायौ चाकाशसंलीने आकाशे च मनोनुगे।
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते।।
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च।
तम एवाभवत्सर्वं न प्राज्ञायत किंचन।।
तमसो ब्रह्मसंभूतं तमोमूलमृतात्मकम्।
तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमाश्रितम्।।
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते।
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम।।
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः।
आदिकर्ता स भूतानामप्रमेयो हरिः प्रभुः।।
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः।
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम्।।
तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः।
अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः।
हिरण्यगर्भो भगवान्सर्वलोकपितामहः।।
पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः।
सहस्रपत्रे द्युतिमानुपविष्टः सनातनः।।
ददृशेऽद्भुतसंकाशो लोकानाप्याययन्प्रभुः।
सत्वस्थः परमेष्ठी स ततो भूतगणान्सृजन्।।
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे।
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ।।
तावपश्यत्स भगवाननादिनिधनोऽच्युतः।
एकस्तत्राभवद्विन्दुर्मध्वाभो रुचिरप्रभः।।
स तामसो मधुर्जातस्तदा नारायणाज्ञया।
कठिनस्त्वपरो विन्दुः कैटभो राजसस्तु सः।।
तावभ्यधातवां श्रेष्ठौ तमोरजगुणान्वितौ।
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ।।
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभवम्।
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान्।।
ततो विग्रहवन्तस्तान्वेदान्दृष्ट्वाऽसुरोत्तमौ।
सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा।।
अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान्।
रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ।।
ततो हृतेषु देवेषु ब्रह्मा कश्मलमाविशत्।
ततो वचनमीशानं प्राह वेदैर्विनाकृतः।।
ब्रह्मोवाच।
वेदा मे परमं चक्षुर्वेदा मे परमं बलम्।
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तरम्।।
मम वेदा हृताः सर्वे दानवाभ्यां बलादितः।
अन्धकारा हि मे लोका जाता वेदैर्विना कृताः।।
वेदानृते हि किं कुर्या लोकानां सृष्टिमुत्तमाम्।
अहो बत महद्दुःखं वेदनाशनजं मम।।
प्राप्तं दुनोति हृदयं तीव्रं शोकपरायणम्।
को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत्।।
वदांस्तांश्चानयेन्नष्टान्कस्य चाहं प्रियो भवे।
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम।।
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर।
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः।।
ब्रह्मोवाच।
ॐ नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज।
लोकाद्यभुवनश्रेष्ठ साङ्ख्ययोगनिधे प्रभो।।
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थितः।
विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज।
अहं प्रसादजस्तुभ्यं लोकधाम स्वयंभुवः।।
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्।
चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम्।।
त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत्।
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो।।
नासत्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते।
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितं।।
इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो।
सर्गेसर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जित।।
प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः।
त्वमीश्वरः स्वभावश्च भूतानां त्वं प्रभावन।।
त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिग।
ते मे वेदा हृताश्चक्षुरन्धो जातोस्मि जागृहि।
ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोसि मे।।
एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः।
जहौ निद्रामथ तदा वेदकार्यार्थमुह्यतः।।
ऐश्वर्येण प्रयोगेण द्वितीयां तनुमास्थितः।
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा।
कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः।।
तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारकाः।
केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः।।
कर्णावाकाशपाताले ललाटं भूतधारिणी।
गङ्गासरस्वती पुण्ये भ्रुवावास्तां महाद्युती।।
चक्षुषी सोमसूर्यौं ते नासा संध्या पुनः स्मृता।
ॐकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता।।
दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः।
गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः।
ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा।।
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम्।
अन्तर्दधौ स विश्वेशो विवेश च रसां प्रभुः।।
रसां पुनः प्रविष्टश्च योगं परममास्थितः।
शैक्ष्यं स्वरं समास्थाय उद्गीतं प्रासृजत्स्वरम्।।
सस्वरः सानुनादी च सर्वशः स्निग्ध एव च।
बभूवान्तर्जलगतः सर्वभूतगुणोदितः।।
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान्।
रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ।।
एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः।
जग्राह वेदानखिलान्रसालगतान्हरिः।।
प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः।।
स्थापयित्वा हयशिरा उदक्पूर्वे महोदधौ।
वेदानामालयश्चापि बभूवाश्वरिरास्ततः।।
अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ।
यत्र देवा विनिक्षिप्तास्तत्स्थानं शून्यमेव च।।
तत उत्तममास्थाय वेगं बलवतां वरौ।
पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा।।
ददृशाते च पुरुषं तमेवादिकरं प्रभुम्।
श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम्।ट
भूयोप्यमितविक्रान्तं निद्रायोगमुपागतम्।।
आत्मप्रमाणरचिते अपामुपरि कल्पिते।
शयने नागभोगाढ्ये ज्वालामालासमावृते।।
निष्कल्मषेण सत्वेन संपन्नं रुचिरप्रभम्।
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम्।।
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ।
अयं स पुरुषः श्वेतः शेते निद्रामुपागतः।।
अनेन नूनं वेदानां कृतमाहरणं रसात्।
कस्यैष कोनु खल्वेष किंच स्वपिति भोगवान्।
इच्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम्।।
युद्धार्थिनौ हि विज्ञाय विबुद्धः पुरुषोत्तमः।
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनोदधे।।
अथ युद्धं समभवत्तयोर्नारायणस्य वै।।
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ।
ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः।।
ततस्तयोर्वधेनाशु वेदापहरणेन च।
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः।।
ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः।
निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान्।।
दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम्।
तत्रैवान्तर्दधे देवो यत एवागतो हरिः।।
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम्।
पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम्।।
एवमेष महाभागो बभूवाश्वशिरा हरिः।
पौराणमेतत्प्रख्यातं रूपं वरदमैश्वरम्।।
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयीत वा।
न तस्याध्ययनं नाशमुपगच्छेत्कदाचन।।
आराध्य तपसोग्रेण देवं हयशिरोधरम्।
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते।।
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम्।
पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि।।
यांयामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित्।
तातां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना।।
एष वेदनिधिः श्रीमानेष वै तपसोनिधिः।
एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हविर्विभुः।।
नारायणपरा वेदा याज्ञा नारायणात्मकाः।
तपो नारायणपरं नारायणपरा गतिः।।
नारायणपरं सत्यमृतं नारायणात्मकम्।
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः।।
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः।
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः।।
अपां चापि गुणा राजन्रसा नारायणात्मकाः।
ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम्।।
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः।
नारायणात्मकश्चैव शब्द आकाशसंभवः।।
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम्।
नारायणपरं कालो ज्योतिषामयनं च यत्।।
नारायणपरा कीर्तिः श्रीश्च लक्ष्णीश्च देवताः।
नारायणपरं साङ्ख्यं योगो नारायणात्मकः।।
कारणं पुरुषो ह्येषां प्रधानं चापि कारणम्।
स्वभावश्चैव कर्माणि दैवं येषां च कारणम्।।
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्।
विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम्।।
पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः।
तत्त्वं विज्ञासमानानां हेतुभिः सर्वतोमुखैः।।
तत्त्वमेको महायोगी हनिर्नारायणः प्रभुः।
ब्रह्मादीनां सलोकानामृषीणां च महात्मनाम्।।
साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम्।
मनीषितं विजानाति केशवो न तु तस्य ते।।
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते।
दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत्।।
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः।
सर्वभूतकृतावासो वासुदेवेति चोच्यते।।
अयं हि नित्यः परमो महर्षि
र्महाविभूतिर्गुणवान्गुणाख्यः।
गुणैश्च संयोगमुपैति शीघ्रं
कालो यथर्तावृतुसंप्रयुक्तः।।
नैवास्य विन्दन्ति गतिं महात्मनो
न चागतिं कश्चिदिहानुपश्यति।
ज्ञानात्मकाः संयमिनो महर्षयः।
पश्यन्ति नित्यं पुरुषं गुणाधिकम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
सप्तपञ्चाशदधिकत्रिशततमोऽध्यायः।। 357।।
12-357-3 हव्यकव्यभुजः। मूलविभुजादित्वात्कः। अकारान्तः शब्दः। उदक्पूर्वे ऐशानकोणे। महोदधौ तत्समीपे। इदमुत्तरान्वयि।।
12-357-5 अपूर्वं प्रागदृष्टम्।।
12-357-6 अपूर्वं अद्भुतम्।।
12-357-10 तत् अश्वशिरोरूपम्।।
12-357-11 ईश्वरबुद्धिजैः ईश्वरसंकल्पमात्रजैः।।
12-357-23 लोकनाथो महान्प्रभुरिति ट. पाठः।।
12-357-38 लोकाद्यनिधनश्रेष्ठेति ट. पाठः।।
12-357-46 देवकार्यार्थमुद्यत इति ट. ध. पाठः।।
12-357-49b गङ्गा सरस्वती श्रोण्यौ भ्रुवावास्तां महोदधी।। पाठः
12-357-53 ओमिति प्रासृजत्स्वरमिति थ.ध. पाठः।।
12-357-74 शृणुयाच्छ्राक्येत वेति थ. ध. पाठः।।
12-357-90 केशवो ननु वै गतिरिति ट. पाठः।।
12-357-93 गुणवान्निर्गुणाख्य इति थ. पाठः।।
12-357-94 पुरुषं गुणातिगमिति ट. पाठः।।
वर्गः:महाभारतम्/शांतिपर्व

English Ganguli

"'Bhishma said, "Proceeding by many delightful forests and lakes and sacred waters, the Brahmana at last arrived at the retreat of a certain ascetic. Arrived there, he enquired of him, in proper words, about the Naga of whom he had heard from his guest, and instructed by him he pursued his journey. With a clear idea of the purpose of his journey, the Brahmana then reached the house of the Naga. Entering it duly, he proclaimed himself in proper words, saying,—'Ho! who is there! I am a Brahmana, come hither as a guest!'—Hearing these words, the chaste wife of the Naga, possessed of great beauty and devoted to the observance of all duties, showed herself. Always attentive to the duties of hospitality, she worshipped the guest with due rites, and welcoming him, said, 'What can I do for you?'

"'"The Brahmana said, 'O lady, I am sufficiently honoured by thee with the sweet words thou hast said unto me. The fatigue of my journey has also been dispelled. I desire, O blessed lady, to see thy excellent lord. This is my high object. This is the one object of my desire. It is for this reason that I have come today to the residence of the Naga, thy husband.'

"'"The wife of the Naga said, 'Reverend sir, my husband has gone to drag the car of Surya for a month. O learned Brahmana, he will be back in fifteen days, and will, without doubt show himself unto thee. I have thus told thee the reason of my husband's absence from home. Be that as it may, what else is there that I can do for thee? Tell me this!'

"'"The Brahmana said, 'O chaste lady, I have come hither with the object of seeing thy husband. O reverend dame, I shall dwell in the adjacent forest, waiting for his return. When thy husband comes back, do kindly tell him that I have arrived at this place impelled by the desire of seeing him. Thou shouldst also inform me of his return when that event occurs. O blessed lady, I shall, till then, reside on the banks of the Gomati, waiting for his return and living all the while upon frugal fare.' Having said this repeatedly unto the wife of the Naga, that foremost of Brahmanas proceeded to the banks of the Gomati for residing there till the time of the Naga's return."'"

Hall of Raziel™ · Raziel’s Library™ · from Raziel’s Mercy™, a lost Android recovery system.

English: Kisari Mohan Ganguli, The Mahabharata of Krishna-Dwaipayana Vyasa, translated into English Prose from the Original Sanskrit Text (Calcutta: Bharata Press, 1883–1896), public domain. Transcription: Project Gutenberg #15474, #15475, #15476, #15477 (from the sacred-texts.com scan, J. B. Hare / Distributed Proofreaders). Sanskrit: Sanskrit Wikisource. The ancient text is public domain; Wikisource page text is shared under CC BY-SA 4.0.