Hall of Raziel™ , found with , and of the Ages Raziel's Mercy™ Found a phone? Raziel's Mercy™ shows a calm blessing screen with a simple invitation: call the owner. A masked Call button reaches them without showing their number. No pressure. No threats. For finders → Raziel's Library™ Raziel's Library™ holds Sefer Raziel ha-Malakh (Amsterdam 1701, Hebrew and English, six parts), the Gutenberg Bible (Genesis, Exodus, Leviticus, 3 Esdras, Judith, Esther, Job and Psalms), 1 Enoch, Jubilees, and the Book of Giants. Enter the Library → Hall of Raziel™ chat room Coming Soon. In the meantime, join us on RUEZALS.chat. Enter RUEZALS.chat Raziel's Mercy™ A lost Android recovery system. When your phone is lost, Mercy turns its screen into a calm, clear, kind blessing so whoever finds it knows how to help. If the phone can't come home, remote erase is there as the last safeguard. How Mercy works → Raziel speaks (paraphrased)
Hall of Raziel™ › Library › Hindu › Mahabharata › Book 1 › Section CXXIX

Mahabharata · Book 1 · Adi Parva

Mahabharata, Book 1, Section CXXIX: Sambhava Parvaआदिपर्व

Kisari Mohan Ganguli’s English prose (1883–96), beside the Sanskrit of adhyāya 1.129.

129Sanskrit adhyāya 1.129 · Sanskrit source · English source

Sanskrit

धर्मात्कुन्त्यां युधिष्ठिरोत्पत्तिः।। 1 ।।
कुन्त्याः पुत्रोत्पत्तिश्रवणेन दुःखितया गान्धार्यां घातितात्स्वोदरान्मांसपेशीजननम्।। 2 ।।
मांसपेशीं एकोत्तरशतधा विभज्य पृथक्पृथक्कुण्डेषु निधाय रक्षणम्।। 3 ।।
वने स्थितस्य पाण्डोः कुन्त्यां वायोर्भीमसेन्नोत्पत्तिः।। 4 ।।
मातुरङ्कात्पतितेन भीमेन शैलशिलासंचूर्णनम्।। 5 ।।
दुर्योधनोत्पत्तिः।। 6 ।।
ततो मासेन धृतराष्ट्रस्य पुत्रशतोत्पत्तिः। दुःशलाजननं च।। 7 ।।
कुन्त्युवाच।
अपत्यकाम एवं स्यान्ममापत्यं भवेदिति।
विप्रं वा गुणसंपन्नं सर्वभूतहिते रतम्।।
अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियः।
यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणमेव च।।
यथोद्दिष्टं त्वया वीर तत्कर्तास्मि महाभुज।
देवात्पुत्रफलं सद्यो विप्रात्कालान्तरे भवेत्।।
आवाहयामि कं देवं कदा वा भरतर्षभ।
त्वत्त आज्ञां प्रतीक्षन्तीं विद्ध्यस्मिन्कर्मणीप्सिते।।
पाण्डुरुवाच।
धन्योऽञस्म्यनुगृहीतोऽस्मि त्वं नो धात्री कुलस्य हि।
नमो महर्षये तस्मै येन दत्तो वरस्तव।।
न चाधर्मेण धर्मज्ञे शक्याः पालयितुं प्रजाः।
तस्मात्त्वं पुत्रलाभाय सन्तानाय ममैव च।।
प्रवरं सर्वदेवानां धर्ममावाहयाबले।
वैशंपायन उवाच।
पाण्डुना समनुज्ञाता भारतेन यशस्विना।
मतिं चक्रे महाराज धर्मस्यावाहने तदा।।'
पाण्डुरुवाच।
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि।
धार्मिकश्च कुरूणां हि भविष्यति न संशयः।।
दत्तस्य तस्य धर्मेण नाधर्मे रंस्यते मनः।
धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम्।।
अपत्यमिष्टं लोकेषु यशःकीर्तिविवर्धनम्।
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते।।
आकाराचारसंपन्ना भजस्वाराधय स्वयम्।।
वैशंपायन उवाच।
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना।
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमथाकरोत्।।
संवत्सरोषिते गर्भे गान्धार्या जनमेजय।
आजुबहाव ततो धर्मं कुन्ती गर्भार्थमच्युतम्।।
सा बलिं त्वरिता देवी धर्मायोपजहार ह।
जजाप विधिवज्जप्यं दत्तं दुर्वाससा पुरा।।
जानन्ती धर्ममग्र्यं वै धर्मं वशमुपानयत्।
आहूतो नियमात्कुन्त्या सर्वभूतनमस्कृतः।।
आजगाम ततो देवीं धर्मो मन्त्रबलात्ततः।
विमाने सूर्यसङ्काशे कुन्ती यत्र जपस्थिता।।
ददृशे भगवान्धर्मः सन्तानार्थाय पाण्डवे।
विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम्।
सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम्।।
तस्मिन्बहुमृगेऽरण्ये शतशृङ्गे नगोत्तमे।
पाण्डोरर्थे महाभागा कुन्ती धर्ममुपागमत्।।
ऋतुकाले शुचिः स्नाता शुक्लवस्त्रा यशस्विनी।
शय्यां जग्राह सुश्रोणी सह धर्मेण सुव्रता।।'
धर्मेण सह संगम्य योगमूर्तिधरेण सा।
लेभे पुत्रं महाबाहुं सर्वप्राणभृतां वरम्।।
ऐन्द्रे चन्द्रमसा युक्ते मुहूर्तेऽभिजितेऽष्टमे।
दिवा मध्यगते सूर्ये तिथौ पूर्णे हि पूजिते।।
समृद्धयसशं कुन्ती सुषाव प्रवरं सुतम्।
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी।।
एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः।
विक्रान्तः सत्यवाक्चैव राजा पृथ्व्यां भविष्यति।।
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः।
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः।
यशसा तेजसा चैव वृत्तेन च समन्वितः।।
संवत्सरे द्वितीये तु गान्धार्या उदरं महत्।
न च प्राजायत तदा ततस्तां दुःखमाविशत्।।
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम्।
उदस्यात्मनः स्थैर्यमुपालभ्य च सौबली।।
कौरवस्यापरिज्ञातं यत्नेन महता स्वयम्।
उदरं घातयामास गान्धारी शोकमूर्छिता।।
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता।
द्विवर्षसंभृता कुक्षौ तामुत्स्रष्टुं प्रचक्रमे।।
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत्।
तां स मांसमयीं पेशीं ददर्श जपतां वरः।।
ततोऽवदत्सौबलेयीं किमिदं ते चिकीर्षितम्।
सा चात्मनो मतं सर्वं शशंस परमर्षये।।
गान्धार्युवाच।
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्।
दुःखेन परमेणेदमुदरं घातितं मया।।
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा।
इयं च मे मांसपेशी जाता पुत्रशताय वै।।
व्यास उवाच।
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत्।
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा।।
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम्।
सुगुप्तेषु च देशेषु रक्षा चैव विधीयताम्।।
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चय।।
वैशंपायन उवाच।
सा सिच्यमाना ह्यष्ठीला ह्यभवच्छतधा तदा।
अङ्गुष्ठपर्वमात्राणां गर्भाणां तत्क्षणं तथा।।
एकाधिकशतं पूर्णं यथायोगं विशांपते।
ततः कुण्डशतं तत्र आनाय्य तु महानृषिः।।
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात्।
ततस्तांस्तेषु कुण्डेषु गर्भान्सर्वान्समादधत्।।
स्वनुगुप्तेषु देशेषु रक्षां चैषां व्यधापयत्।
शशास चैव कृष्णो वै गर्भाणां रक्षणं तथा।।
उवाच चैनां भगवान्कालेनैतावता पुनः।
स्फुटमानेषु कुण्डेषु जाताञ्जानीहि शोभने।।
उद्धाटनीयान्येतानि कुण्डानीति च सौबलीम्।
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च।।
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम्।
अह्नोत्तराः कुमारस्ते कुण्डेभ्यस्तु समुत्थिताः।।
तेनैवैषां क्रमेणासीज्ज्योष्ठानुज्येष्ठता तदा।
जन्मतश्च प्रमाणेन ज्येष्ठः कुन्तीसुतोऽभवत्।।
धार्मिकं च सुतं दृष्ट्वा पाण्डुः कुन्तीमथाऽब्रवीत्।
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु।।
ततः कुन्तीमभिक्रम्य शशासातीव भारत।
वायुमावाहयस्वेति स देवो बलवत्तरः।।
अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः।
ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठश्च मारुतः।।
मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिरीडितम्।
आवाहय त्वं नियमात्पुत्रार्थं वरवर्णिनि।।
स नो यं दास्यति सुतं स प्राणबलवान्नृषु।
भविष्यति वरारोहे बलज्येष्ठा हि भूमिपाः।।
वैशंपायन उवाच।
तथोक्तवति सा काले वायुमेवाजुहाव ह।
द्वितीयेनोपहारेण तेनोक्तविधिना पुनः।।
तैरेव नियमैः स्थित्वा मन्त्रग्राममुदैरयत्।
आजगाम ततो वायुः किं करोमीति चाब्रवीत्।।
लज्जान्विता ततः कुन्ती पुत्रमैच्छन्महाबलम्।
तथास्त्विति च तां वायुः समालभ्य दिवं गतः।।
तस्यां जज्ञे महावीर्यो भीमो भीमपराक्रमः।
तमप्यतिबलं जातं वागुवाचाशरीरिणी।।
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत।
जातमात्रे कुमारे तु सर्वलोकस्य पार्थिवाः।।
मूत्रं प्रसुस्रुवुः सर्वे व्यथां चापि प्रपेदिरे।
वाहनानि व्यशीर्यन्त व्यमुञ्चन्नश्रुबिन्दवः।।
यथाऽनिलः समुद्भूतः समर्थः कम्पने भुवः।
तथा ह्युपचिताङ्गो वै भीमो भीमपराक्रमः।।
इदं चाद्भुतमत्रासीज्जातमात्रे वृकोदरे।
यदऱ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत्।।
कुन्ती तु सह पुत्रेण याता सुरुचिरं सरः।
स्नात्वा च सुतमादाय दशमेऽहनि यादवी।।
दैवतान्यर्चयिष्यन्ती निर्जगामाश्रमात्पृथा।
शैलाभ्याशेन गच्छन्त्यास्तदा भरतसत्तम।।
निश्चक्राम महाव्याघ्रो जिघांसुर्गिरिगह्वरात्।
तमापतन्तं शार्दूलं विकृष्य धनुरुत्तमम्।।
निर्बिभेद शरैः पाण्डुस्त्रिभिस्तिरदशविक्रमः।
नादेन महता तां तु पूरयन्तं गिरेर्गुहाम्।।
दृष्ट्वा शैलमुपारोढुमैच्छत्कुन्ती भयात्तदा।
त्रासात्तस्याः सुतस्त्वङ्कात्पपात भरतर्षभ।।
पर्वतस्योपरिस्थायामधस्तादपतच्छिशुः।
स शिलां चूर्णयामास वज्रवद्वज्रिचोदितः।।
पुत्रस्नेहात्ततः पाण्डुरभ्यधावद्गिरेस्तटम्।
पतता तेन शतधा शिला गात्रैर्विचूर्णिता।।
शिलां च चूर्णितां दृष्ट्वा परं विस्मयमागमत्।
स तु जन्मनि भीमस्य विनदन्तं विनादितम्।।
ददर्श गिरिशृङ्गस्थं व्याघ्रं व्याघ्रपराक्रमः।
दारसंरक्षणार्थाय पुत्रसंरक्षणाय च।।
सदा बाणधनुष्पाणिरभवत्कुरुनन्दनः।
मघे चन्द्रमसा युक्ते सिंहे चाभ्युदिते गुरौ।।
दिवा मध्यगते सूर्ये तिथौ पुण्ये त्रयोदशे।
पित्र्ये मुहूर्ते सा कुन्ती सुषुवे भीममच्युतम्।।
यस्मिन्नहनि भमस्तु जज्ञे भीमपराक्रमः।
तामेव रात्रिं पूर्वां तु जज्ञे दुर्योधनो नृपः।।
स जातमात्र एवाथ धृतराष्ट्रसुतो नृप।
रासभारावसदृशं रुराव च ननाद च।।
तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः।।
वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा।
ततस्तु भीतवद्राजा धृतराष्ट्रोऽब्रवीदिदम्।।
समानीय बहून्विप्रान्भीष्मं विदुरमेव च।
अन्यांश्च सुहृदो राजन्कुरून्सर्वांस्तथैव च।।
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः।
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्तिनः।।
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति।
एतद्विब्रूत मे तथ्यं यदत्र भविता ध्रुवम्।।
अस्मिञ्जाते निमित्तानि शंसन्ती हाशिवं महत्।
अतो ब्रवीमि विदुर द्रुतं मां भयमाविशत्।।'
वाक्यस्यैतस्य निधेन दिक्षु सर्वासु भारत।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः।।
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः।
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः।।
यथेमानि निमित्तानि घोराणि मनुजाधिप।
उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ।।
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव।
तस्य शान्तिः परित्यागे गुप्तावपनयो महान्।।
एष दुर्योधनो राजा मधुपिङ्गललोचनः।
न केवलं कुलस्यान्तं क्षत्रियान्तं करिष्यति।।'
शतमेकोनमप्यस्तु पुत्राणां ते महीपते।
त्यजैनमेकं शान्तिं चेत्कुलस्येच्छसि भारत।।
एकेन कुरु वै क्षेमं कुलस्य जगतस्तथा।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्।
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः।।
न चकार तथा राजा पुत्रस्नेहसमन्वितः।
ततः पुत्रशतं पूर्ण धृतराष्ट्रस्य पार्थिव।।
अह्नांशतेन संजज्ञे कन्या चैका शताधिका।
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता।।
वैश्या सा त्वम्बिकापुत्रं कन्या परिचचार ह।
तया समभवद्राजा धृतराष्ट्रो यदृच्छया।।'
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः।
जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करमो नृप।
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः।।
महारथानां वीराणां कन्या चैका शताधिका।
युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान्।।
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः।। 129 ।।
ऐन्द्रे ज्येष्ठानक्षत्रे। अष्टमे अभिजितेऽभिजिति त्रिंशन्मुहूर्तस्याह्नोऽष्टमे मुहूर्ते। दिवा शुक्लपक्षे। मध्यगते तुलायनगते। तिथौ पूर्णे पूर्णायां पञ्चम्याम्। अयं योगः प्रायेणास्विनशुक्लपञ्चम्याम्।।
लोहाष्ठीला लोहपिण्डिका।।
वज्रवद्वज्रिचोदितः वज्रिचोदितवज्रवदित्यर्थः।।
विनादितं नादं। विनन्दं कुर्वाणम्।।
रुराव च ननाद च व्यक्तमव्यक्तं च शब्दं खरसदृशमेवाकरोत्।।
करण इव करणः क्षत्रियाद्वैश्यायां जातत्वान्न तु वैश्याच्छूद्रायाम्।।
एकोनत्रिंशदधिकशततमोऽध्यायः।। 129 ।।
वर्गः:आदिपर्व

English Ganguli

“Vaisampayana said, ‘Meanwhile the Kauravas and the Pandavas, after having thus sported there, set out, without Bhima, for Hastinapura, some on horses, some on elephants, while others preferred cars and other conveyances. And on their way they said to one another, ‘Perhaps, Bhima hath gone before us.’ And the wicked Duryodhana was glad at heart to miss Bhima, and entered the city with his brothers in joy.

“The virtuous Yudhishthira, himself unacquainted with vice and wickedness, regarded others to be as honest as himself. The eldest son of Pritha, filled with fraternal love, going unto his mother, said, after making obeisance to her, ‘O mother, hath Bhima come? O good mother, I don’t find him here. Where may he have gone? We long sought for him everywhere in the gardens and the beautiful woods; but found him nowhere. At length, we thought that the heroic Bhima preceded us all. O illustrious dame, we came hither in great anxiety. Arrived here, where hath he gone? Have you sent him anywhere? O tell me, I am full of doubts respecting the mighty Bhima. He had been asleep and hath not come. I conclude he is no more.’

“Hearing these words of the highly intelligent Yudhishthira, Kunti shrieked, in alarm, and said, ‘Dear son, I have not seen Bhima. He did not come to me. O, return in haste, and with your brothers search for him.’

“Having said this in affliction to her eldest son, she summoned Vidura, and said, ‘O illustrious Kshattri, Bhimasena is missing! Where has he gone? The other brothers have all come back from the gardens, only Bhima of mighty arms does not come home! Duryodhana likes him not. The Kaurava is crooked and malicious and low-minded and imprudent. He coveteth the throne openly. I am afraid he may have in a fit of anger slain my darling. This afflicts me sorely, indeed, it burns my heart.’

“Vidura replied, ‘Blessed dame, say not so! Protect thy other sons with care. If the wicked Duryodhana be accused, he may slay thy remaining sons. The great sage hath said that all thy sons will be long-lived. Therefore, Bhima will surely return and gladden thy heart.’

“Vaisampayana continued, ‘The wise Vidura, having said this unto Kunti, returned to his abode, while Kunti, in great anxiety, continued to stay at home with her children.

“Meanwhile, Bhimasena awoke from that slumber on the eighth day, and felt strong beyond measure in consequence of the nectar he had taken having been all digested. Seeing him awake, the Nagas began to console and cheer him, saying, ‘O thou of mighty arms, the strength-giving liquor thou hast drunk will give thee the might of ten thousand elephants! No one now will be able to vanquish thee in fight. O bull of Kuru’s race, do thou bath in this holy and auspicious water and return home. Thy brothers are disconsolate because of thee.’

“Then Bhima purified himself with a bath in those waters, and decked in white robes and flowery garlands of the same hue, ate of the paramanna (rice and sugar pudding) offered to him by the Nagas. Then that oppressor of all foes, decked in celestial ornaments, received the adorations and blessings of the snakes, and saluting them in return, rose from the nether region. Bearing up the lotus-eyed Pandava from under the waters, the Nagas placed him in the selfsame gardens wherein he had been sporting, and vanished in his very sight.

“The mighty Bhimasena, arrived on the surface of the earth, ran with speed to his mother. And bowing down unto her and his eldest brother, and smelling the heads of his younger brothers, that oppressor of all foes was himself embraced by his mother and every one of those bulls among men. Affectionate unto one another, they all repeatedly exclaimed, ‘What is our joy today, O what joy!’

‘Then Bhima, endued with great strength and prowess, related to his brothers everything about the villainy of Duryodhana, and the lucky and unlucky incidents that had befallen him in the world of the Serpents. Thereupon Yudhishthira said, ‘Do thou observe silence on this. Do not speak of this to any one. From this day, protect ye all one another with care.’ Thus cautioned by the righteous Yudhishthira, they all, with Yudhishthira himself, became very vigilant from that day. And lest negligence might occur on the part of the sons of Kunti, Vidura continually offered them sage advice.

“Some time after, Duryodhana again mixed in the food of Bhima a poison that was fresh, virulent, and very deadly. But Yuyutsu (Dhritarashtra’s son by a Vaisya wife), moved by his friendship for the Pandavas, informed them of this. Vrikodara, however, swallowed it without any hesitation, and digested it completely. And, though virulent the poison produced no effects on Bhima.

“When that terrible poison intended for the destruction of Bhima failed of its effect, Duryodhana. Karna and Sakuni, without giving up their wicked design had recourse to numerous other contrivances for accomplishing the death of the Pandavas. And though every one of these contrivances was fully known to the Pandavas, yet in accordance with the advice of Vidura they suppressed their indignation.

“Meanwhile, the king (Dhritarashtra), beholding the Kuru princes passing their time in idleness and growing naughty, appointed Gautama as their preceptor and sent them unto him for instruction. Born among a clump of heath, Gautama was well-skilled in the Vedas and it was under him (also called Kripa) that the Kuru princes began to learn the use of arms.’”

Hall of Raziel™ · Raziel’s Library™ · from Raziel’s Mercy™, a lost Android recovery system.

English: Kisari Mohan Ganguli, The Mahabharata of Krishna-Dwaipayana Vyasa, translated into English Prose from the Original Sanskrit Text (Calcutta: Bharata Press, 1883–1896), public domain. Transcription: Project Gutenberg #15474, #15475, #15476, #15477 (from the sacred-texts.com scan, J. B. Hare / Distributed Proofreaders). Sanskrit: Sanskrit Wikisource. The ancient text is public domain; Wikisource page text is shared under CC BY-SA 4.0.